Proofing

This page has not been fully proofread.

तृतीयः खण्डः ॥
 
अथ येऽस्य प्रत्यञ्चो रश्मयस्ता एवास्य
प्रतीच्यो मधुनाड्यः सामान्येव मधुकृतः
सामवेद एव पुष्पं ता अमृता आपः ॥
 
तानि वा एतानि सामान्येत सामवें-,
दमभ्यतपस्तस्याभितप्तस्य यशस्तेज इ-
न्द्रियं वीर्यमन्नाद्यँ रसोऽजायत ॥ २ ॥
 
तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा ए-
तद्यदेतदादित्यस्य कृष्ण रूपम् ॥ ३ ॥
इति तृतीयः खण्डः ।
 
अथ येऽस्य प्रत्यचो रश्मय इत्यादि समानम् । तथा
 
सानां मधु, एतदादित्यस्य कृष्णं रूपम् ॥
 
इति तृतीयखण्डभाष्यम् ॥