2026-05-06 05:53:07 by ambuda-bot
This page has not been fully proofread.
द्वितीयः खण्डः ॥
अथ येऽस्य दक्षिणा रश्मयस्ता एवा-
स्य दक्षिणा मधुनाड्यो यजूष्येव मधुकृ-
तो यजुर्वेद एव पुष्पं ता अमृता आपः ॥
अथ ये अस्य दक्षिणा रश्मय इत्यादि समानम् । यजूं-
येव मधुकृतः यजुर्वेदविहिते कर्मणि प्रयुक्तानि पूर्ववन्मधु-
कृत इव । यजुर्वेदविहितं कर्म पुष्पस्थानीयं पुष्पमित्युच्यते ।
ता एव सोमाद्या अमृता आपः ॥
तानि वा एतानि यजू येतं यजुर्वेद-
मभ्यतपस्तस्याभितप्तस्य यशस्तेज इ-
न्द्रियं वीर्यमन्नाद्य रसोऽजायत ॥ २ ।
तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा ए-
तद्यदेतदादित्यस्य शुक्ल ँ रूपम् ॥ ३ ॥
इति द्वितीयः खण्डः ॥
तानि वा एतानि यजूंष्येतं यजुर्वेदमभ्यतपन् इत्येवमादि
सर्वं समानम् । मधु एतदादित्यस्य दृश्यते शुक्लं रूपम् ॥
इति द्वितीयखण्डभाष्यम् ॥