Proofing

This page has not been fully proofread.

१४२
 
छान्दोग्योपनिषद्भाष्ये
 
[ख.
 
येनोपयुज्यमानेनाहन्यहनि देवानां स्थितिः स्यात् तदन्नाद्यम्
 
एष रसः अजायत यागादिलक्षणात्कर्मणः ॥
 
तद्व्ग्रक्षरत्तदादित्यमभितोऽश्रयत्तद्वा ए-
तद्यदेतदादित्यस्य रोहित‍ रूपम् ॥ ४ ॥
इति प्रथमः खण्डः ।
 
यश आद्यन्नाद्यपर्यन्तं तत् व्यक्षत् विशेषेणाक्षरत् अगमत् ।
गत्वा च तदादित्यम् अभितः पार्श्वतः पूर्वभागं सवितुः अश्र-
यत् आश्रितवदित्यर्थः । अमुष्मिन्नादित्ये संचितं कर्मफलाख्यं
मधु भोक्ष्यामह इत्येवं हि यशआदिलक्षणफलप्राप्तये कर्मा-
णि क्रियन्ते मनुष्यैः – केदारनिष्पादनमिव कर्षकैः । तत्प्र-
त्यक्षं प्रदर्श्यते श्रद्धा हेतोः । तद्वा एतत्; किं तत् ? यदेतत्
आदित्यस्य उद्यतो दृश्यते रोहितं रूपम् ॥
 
-
 
इति प्रथमखण्डभाष्यम् ॥