2026-05-06 05:53:06 by ambuda-bot
This page has not been fully proofread.
१.]
तृतीयोऽध्यायः ।
१४१
ऋग्वेदाख्यत्वात् शब्दमात्राञ्च भोग्यरूपरसनिस्रावासंभवात्
ऋग्वेदशब्देन अत्र ऋग्वेदविहितं कर्म, ततो हि कर्मफलभू-
तमधुरसनिस्रावसंभवात् । मधुकरैरिव पुष्पस्थानीयादृग्वेद-
विहितात्कर्मणः अप आदाय ऋग्भिर्मधु निर्वर्त्यते । कस्ता
आप इति, आह— ताः कर्मणि
प्रयुक्ताः सोमाज्यपयोरूपाः
अग्नौ प्रक्षिप्ताः तत्पाकाभिनिर्वृत्ता अमृताः अमृतार्थत्वादत्य-
न्तरसवत्यः आपो भवन्ति । तद्रसानादाय ता वा एता ऋचः
पुष्पेभ्यो रसमाददाना इव भ्रमरा ऋचः ॥
एतमृग्वेदमभ्यतपस्तस्याभितप्तख य-
शस्तेज इन्द्रियं वीर्यमन्नाद्य रसोऽजा-
यत ॥ ३ ॥
एतम् ऋग्वेदम् ऋग्वेदविहितं कर्म पुष्पस्थानीयम् अभ्य-
तपन् अभितापं कृतवत्य इव एता ऋचः कर्मणि प्रयुक्ताः ।
ऋग्भिर्हि मन्त्रैः शस्त्राद्यङ्गभावमुपगतैः क्रियमाणं कर्म मधु-
निर्वर्तकं रसं मुञ्चतीत्युपपद्यते, पुष्पाणीव भ्रमरैराचूष्यमा-
णानि । तदेतदाह - तस्थ ऋग्वेदस्य अभितप्तस्य । कोऽसौ
रसः, यः ऋङ्मधुकराभितापनिःसृत इत्युच्यते ? यश: वि-
श्रुतत्वं तेजः देहगता दीप्तिः इन्द्रियं सामर्थ्योपेतैरिन्द्रियैरवै-
कल्यं वीर्यं सामर्थ्यं बलमित्यर्थः, अन्नाद्यम् अन्नं च तदाद्यं च
S. u. III. 20