2026-05-06 05:53:06 by ambuda-bot
This page has not been fully proofread.
१४०
छान्दोग्योपनिषद्भाष्ये
[ख.
शः तिरश्वीनश्वासौ वंशश्चेति तिरश्चीनवंशः । तिर्यग्गतेव हि
द्यौर्लक्ष्यते । अन्तरिक्षं च मध्यपूपः द्युवंशे लग्नः सन् लम्बत
इव, अतो मध्वपूपसामान्यात् अन्तरिक्षं मध्वपूपः, मधुनः
सवितुराश्रयत्वाच्च । मरीचयः रश्मयः रश्मिस्था आपो भौ-
माः सवित्राकृष्टाः । एता वा आप: स्वराजो यन्मरीचय: '
इति हि विज्ञायन्ते । ता अन्तरिक्षमध्वपूपस्थरश्म्यन्तर्गत-
त्वात् भ्रमरबीजभूताः पुत्रा इव हिता लक्ष्यन्त इति पुत्रा
इव पुत्राः, मध्वपूपनाड्यन्तर्गता हि भ्रमरपुत्राः ॥
तस्य ये प्राची रश्मयस्ता एवास्य प्रा-
च्यो मधुनाड्यः । ऋच एवं मधुकृत ऋ-
ग्वेद एव पुष्पं ता अमृता आपस्ता वा
एता ऋचः ॥ २ ॥
तस्य सवितुः मध्वाश्रयस्य मधुनो ये प्राञ्चः प्राच्यां
दिशि गताः रश्मयः, ता एव अस्य प्राच्यः प्रागञ्चनात्
मधुनो नाड्यः मधुनाड्य इव मध्वाधारच्छिद्राणीत्यर्थः । तत्र
ऋच एव मधुकृतः लोहितरूपं सवित्राश्रयं मधु कुर्वन्तीति
मधुकृत: भ्रमरा इव; यतो रसानादाय मधु कुर्वन्ति, तत्पु-
पमिव पुष्पम् ऋग्वेद एव । तत्र ऋग्ब्राह्मणसमुदायस्य