Proofing

This page has not been fully proofread.

॥ तृतीयोऽध्यायः ॥
 
सौ वा आदित्यः' इत्यादि अध्यायारम्भे
संबन्ध: । अतीतानन्तराध्यायान्ते उक्तम् 'यज्ञस्य
मात्रां वेद' इति । यज्ञविषयाणि च सामहोम-
मन्त्रोत्थानानि विशिष्टफलप्राप्तये यज्ञाङ्गभूता-
न्युपदिष्टानि । सर्वयज्ञानां च कार्यनिर्वृत्तिरूपः
सविता महत्या श्रिया दीप्यते । स एष सर्वप्राणिकर्मफल-
भूतः प्रत्यक्षं सर्वैरुपजीव्यते । अतो यज्ञव्यपदेशानन्तरं त-
त्कार्यभूत सवितृविषयमुपासनं सर्वपुरुषार्थेभ्य: श्रेष्ठतम फलं वि-
धास्यामीत्येवमारभते श्रुति:-
 
-
 
असौ वा आदित्यो देवमधु तख द्यौ-
रेव तिरश्चीनवशोऽन्तरिक्षमपूपो मरी-
चयः पुत्राः ॥ १ ॥
 
असौ वा आदित्यो देवमध्वित्यादि । देवानां मोदनात्
मध्विव मधु असौ आदित्यः । वस्वादीनां च मोदनहेतुत्वं
वक्ष्यति सर्वयज्ञफलरूपत्वादादित्यस्य । कथं मधुत्वमिति,
आह— तस्य मधुनः द्यौरेव भ्रामरस्येव मधुनः तिरश्चीनवं-