Proofing

This page has not been fully proofread.

१३४
 
छान्दोग्योपनिषद्भाष्ये
 
[ख-
 
मेतैर्वसुभ्यः प्रातः सवनसंबद्धो लोको निष्क्रीतः स्यात् । ततस्ते
प्रातः सवनं वसवो यजमानाय संप्रयच्छन्ति ॥
 
पुरा माध्यंदिनस्य सवनस्योपाकरणा-
ज्जघनेनाग्नीधीयस्योदङ्मुख उपविश्य स
रौद्र सामाभिगायति ॥ ७ ॥
 
लो३कद्वारमपावा३र्णू३३ पश्येम त्वा
वयं वैरा३३३३३ हु३म् आ३३ज्या३यो३
आ३२१११इति ॥ ८ ॥
 
तथा आग्नीध्रीयस्य दक्षिणाग्नेः जघनेन उदङ्मुख उप-
विश्य सः रौद्रं साम अभिगायति यजमानः रुद्रदैवत्यं वैरा-
 
ज्याय ॥
 
अथ जुहोति नमो वायवेऽन्तरिक्षक्षिते
लोकक्षिते लोकं मे यजमानाय विन्देष वै
यजमानस्य लोक एतास्मि ॥ ९ ॥
 
अत्र यजमानः परस्तादायुषः स्वाहा-
पजहि परिघमित्युक्त्वोत्तिष्ठति तस्मै
रुद्रा माध्यंदिन सवन संप्रयच्छन्ति ॥