2026-05-06 05:53:00 by ambuda-bot
This page has not been fully proofread.
१३२
छान्दोग्योपनिषद्भाष्ये
-
[ख.
अतः क्व तर्हि यजमानस्य लोकः, यदर्थं यजते ; न -
चिल्लोकोऽस्तीत्यभिप्राय:- 'लोकाय वै यजते यो यजते '
इति श्रुते: । लोकाभावे च स यो यजमानः तं लोकस्वीकर-
णोपायं सामहोममन्त्रोत्थानलक्षणं न विद्यात् न विजानी-
यात्, सोऽज्ञः कथं कुर्यात् यज्ञम्, न कथंचन तस्य कर्तृत्व-
मुपपद्यत इत्यर्थः । सामादिविज्ञानस्तुतिपरत्वात् न अविदुषः
कर्तृत्वं कर्ममात्रविदः प्रतिषिध्यते - स्तुतये च सामादिवि-
ज्ञानस्य, अविद्वत्कर्तृत्वप्रतिषेधाय च इति हि भिद्येत वाक्यम् ।
आये च औपस्त्ये काण्डे अविदुषोऽपि कर्मास्तीति हेतुम-
वोचाम । अथ एतद्वक्ष्यमाणं सामाद्युपायं विद्वान्कुर्यात् ॥
पुरा प्रातरनुवाकस्योपाकरणाज्जघनेन
गार्हपत्यस्योदङ्मुख उपविश्य स वासव
सामाभिगायति ॥ ३ ॥
किं तद्वेद्यमिति, आह— पुरा पूर्व प्रातरनुवाकस्य श-
स्त्रस्य प्रारम्भात् जघनेन गार्हपत्यस्य पश्चात् उदङ्मुखः सन्
उपविश्य सः वासवं वसुदैवत्यं साम अभिगायति ॥
लो३कद्वारमपावा३र्णू ३३ पश्येम त्वा
वयँ रा ३३३३३ हु ३ म् आ ३३ ज्या ३