2026-05-06 05:52:59 by ambuda-bot
This page has not been fully proofread.
चतुर्विंशः खण्डः ॥
·
सामोपासनप्रसङ्गेन कर्मगुणभूतत्वान्निवर्त्य ओंकारं पर-
मात्मप्रतीकत्वादमृतत्वहेतुत्वेन महीकृत्य प्रकृतस्यैव यज्ञस्य
अङ्गभूतानि सामहोममन्त्रोत्थानान्युपदिदिक्षन्नाह—
ब्रह्मवादिनो वदन्ति यद्वसूनां प्रातः-
सवन रुद्राणां माध्यंदिन सवनमादि-
त्यानां च विश्वेषां च देवानां तृतीयसव-
नम् ॥ १ ॥
ब्रह्मवादिनो वदन्ति, यत्प्रातः सवनं प्रसिद्धं तद्वसूनाम् ।
तैश्च प्रातःसवनसंबद्धोऽयं लोको वशीकृतः प्रातः सवनेशानैः ।
तथा रुद्रैर्माध्यंदिनसवनेशानैः अन्तरिक्षलोकः । आदित्यैश्च
विश्वैर्देवैश्व तृतीयसवनेशानैस्तृतीयो लोको वशीकृतः । इति
यजमानस्य लोकोऽन्यः परिशिष्टो न विद्यते ॥
क तर्हि यजमानस्य लोक इति स
यस्तं न विद्यात्कथं कुर्यादथ विद्वान्कुर्यात् ॥