Proofing

This page has not been fully proofread.

१३०
 
छान्दोग्योपनिषद्भाष्ये
 
तान्यभ्यतपत्तेभ्योऽभितप्तेभ्य ॐकारः
संप्रास्रवत्तद्यथा शङ्कुना सर्वाणि पर्णा-
नि संतृण्णान्येवमोंकारेण सर्वा वाक्सं-
 
तृणोंकार एवेद
सर्वम् ॥ ३ ॥
 
सर्वमोंकार एवेद‍
 
[ख.
 
इति त्रयोविंशः खण्डः ॥
 
तानि अक्षराणि अभ्यतपत्, तेभ्यः अभितप्तेभ्यः ॐकारः
संप्रास्रवत् । तत् ब्रह्म कीदृशमिति, आह— तद्यथा शङ्कुना
पर्णनालेन सर्वाणि पर्णानि पत्रावयवजातानि संतृणानि नि-
विद्धानि व्याप्तानीत्यर्थः । एवम् ओंकारेण ब्रह्मणा परमात्मनः
प्रतीकभूतेन सर्वा वाक् शब्दजातं संतृष्णा - ' अकारो वैस-
र्वा वाक्' इत्यादिश्रुतेः । परमात्मविकारश्च नामधेयमात्रम्
इत्यतः ओंकार एवेद सर्वमिति । द्विरभ्यासः आदरार्थः ।
लोकादिनिष्पादनकथनम् ओंकारस्तुत्यर्थमिति ॥
 
इति त्रयोविंशखण्डभाष्यम् ॥