Proofing

This page has not been fully proofread.

२३.]
 
द्वितीयोऽध्यायः ।
 
१२९
 
ज्ञाने सति पारित्राज्यमर्थसिद्धम् ॥
 
ननु अग्न्युत्सादन दोषभाक्स्यान् परिव्रजन — 'वीरहा
वा एष देवानां योऽग्निमुद्वासयते ' इति श्रुतेः, न, दैवोत्सा-
दितत्वात्, उत्सन्न एव हि स एकत्वदर्शने जाते- 'अपा-
गादग्नेरग्नित्वम्' इति श्रुतेः । अतो न दोषभाक् गृहस्थः परि-
जन्निति ॥
 
यत्संस्थ: अमृतत्वमेति, तन्निरूपणार्थमाह-
 
प्रजापतिर्लोकानभ्यतपत्तेभ्योऽभितसे-
 
भ्यस्त्रयी विद्या संप्रास्रवत्तामभ्यतपत्त-
स्या अभितप्ताया एतान्यक्षराणि संप्रास्र-
वन्त भूर्भुवः स्वरिति ॥ २ ॥
 
प्रजापतिः विराट् कश्यपो वा, लोकान् उद्दिश्य: तेषु
सारजिघृक्षया अभ्यतपत् अभितापं कृतवान् ध्यानं तपः
कृतवानित्यर्थः ; तेभ्यः अभितप्तेभ्यः सारभूता त्रयी विद्या
संप्रास्रवत् प्रजापतेर्मनसि प्रत्यभादित्यर्थः । तामभ्यतपत्-
पूर्ववत् । तस्या अभितप्तायाः एतान्यश्नराणि संप्रास्रवन्त
भूर्भुव: स्वरिति व्याहृतयः ॥