2026-05-06 05:52:58 by ambuda-bot
This page has not been fully proofread.
१०८
छान्दोग्योपनिषद्भाष्ये
[खं.
दर्शनात् । गृहस्थितिपारिव्राज्य तक्षणादिनिमित्तोपादाना अपि,
गृहस्थपरिव्राजकावाश्रमिविशेषे, विशिष्टजातिमति च तक्षेति,
रूढा दृश्यन्ते शब्दा: । न यत्र यत्र निमित्तानि तत्र तत्र
वर्तन्ते, प्रसिद्ध्यभावात् । तथा इहापि ब्रह्मसंस्थशब्दो
निवृत्त सर्वकर्मतत्साधनपरित्रा डेकविषये ऽत्याश्रमिणि परमहं
साख्ये वृत्त इह भवितुमर्हति, मुख्यामृतत्वफलश्रवणात् ।
अतश्चेदमेवैकं वेदोक्तं पारित्राज्यम्, न यज्ञोपवीतत्रिदण्ड-
कमण्डल्वादिपरिग्रह इति ; 'मुण्डोऽपरिग्रहोऽसङ्गः' इति
च । श्रुति: ' अत्याश्रमिभ्यः परमं पवित्रम्' इत्यादि च
श्वेताश्वतरीये; 'निस्तुतिर्निर्नमस्कार:' इत्यादिस्मृतिभ्यश्च ;
' तस्मात्कर्म न कुर्वन्ति यतयः पारदर्शिनः । तस्मादलिङ्गो
धर्मज्ञोऽञ्यक्तलिङ्गः' इत्यादिस्मृतिभ्यश्च ॥
यत्तु सांख्यैः कर्मत्यागोऽभ्युपगम्यते, क्रियाकारकफलभे-
दबुद्धेः सत्यत्वाभ्युपगमात्, तन्मृषा । यच्च वौद्धैः शून्यता-
भ्युपगमात् अकर्तृत्वमभ्युपगम्यते, तदप्यसत्, तदभ्युप-
गन्तुः सत्त्वाभ्युपगमात् । यच्च अज्ञैरलसतया अकर्तृत्वाभ्युप-
गमः, सोऽप्यसत्, कारकबुद्धेरनिवर्तितत्वात्प्रमाणेन । तस्मात्
वेदान्तप्रमाणजनितैकत्वप्रत्ययवत एव कर्मनिवृत्तिलक्षणं पा-
रिव्राज्यं ब्रह्मसंस्थत्वं चेति सिद्धम् । एतेन गृहस्थस्यैकत्ववि -