Proofing

This page has not been fully proofread.

२३.]
 
द्वितीयोऽध्यायः ।
 
१२७
 
मित्वाभावात् भिक्षुरेक एव परिव्राट्, न गृहस्थादिः ।
एकत्वप्रत्ययविधिजनितेन प्रत्ययेन विधिनिमित्तभेदप्रत्ययस्यो-
पमर्दितत्वात् यमनियमाद्यनुपपत्तिः परिव्राजकस्येति चेत्,
न, बुभुक्षादिना एकत्वप्रत्ययात्प्रच्यावितस्योपपत्तेः, निवृत्त्य-
र्थत्वात् । न च प्रतिषिद्धसेवाप्राप्तिः, एकत्वप्रत्ययोत्पत्तेः
प्रागेव प्रतिषिद्धत्वात् । न हि रात्रौ कूपे कण्टके वा पतितः
उदितेऽपि सवितरि पतति तस्मिन्नेव । तस्मात् सिद्धं निवृ-
त्तकर्मा भिक्षुक एव ब्रह्मसंस्थ इति । यत्पुनरुक्तं सर्वेषां
ज्ञानवर्जितानां पुण्यलोकतेति — सत्यमेतत् । यञ्चोक्तं तपः-
शब्देन परिव्राडप्युक्त इति - एतदसत् । कस्मात् ? परित्रा-
जकस्यैव निवृत्त भेदप्रत्ययस्य ब्रह्मसंस्थतासंभवात् । स एव हि
अवशेषित इत्यवोचाम । एकत्वविज्ञानवतोऽग्निहोत्रादिवत्त-
पोनिवृत्तेश्च । भेदबुद्धिमत एव हि तपः कर्तव्यता स्यात् ।
एतेन कर्मच्छिद्रे ब्रह्मसंस्थतासामर्थ्यम्, अप्रतिषेधश्च प्र-
त्युक्तः । तथा ज्ञानवानेव निवृत्तकर्मा परिव्राडिति ज्ञान-
वैयर्थ्य प्रत्युक्तम् । यत्पुनरुक्तं यववराहादिशब्दवत्परित्रा-
जके न रूढो ब्रह्मसंस्थशब्द इति, तत्परिहृतम् ; तस्यैव
ब्रह्मसंस्थतासंभवान्नान्यस्येति । यत्पुनरुक्तं रूढशब्दाः नि-
मित्तं नोपाददत इति, तन्न, गृहस्थतक्षपरिव्राजकादिशब्द-