2026-05-06 05:52:56 by ambuda-bot
This page has not been fully proofread.
छान्दोग्योपनिषद्वाप्ये
[ख.
कामात्मता न प्रशस्तेत्येवं विज्ञानवद्भिः काम्यानि कर्माणि
नानुष्ट्रीयन्त इति, काम्यकर्म विधय उच्छिद्यन्ते, अनुष्टीयन्त
एवं कामिभिरिति तथा ब्रह्मसंस्थैर्ब्रह्मविद्भिननुष्ठीयते
कमणीति न तद्विधय उच्छिद्यन्ते, अब्रह्मविद्भिरनुष्ठीयन्त
एवेति । परिव्राजकानां भिक्षाचरणादिवत् उत्पन्नैकत्वप्रत्य
यानामपि गृहस्थादीनामग्निहोत्रादिकर्मानिवृत्तिरिति चेत्,
न, प्रामाण्यचिन्तायां पुरुपप्रवृत्तेरदृष्टान्तत्वात् — न हि,
नाभिचरेदिति प्रतिषिद्धमप्यभिचरणं कश्चित्कुर्वन्दृष्ट इति,
शत्रौ द्वेषरहितेनापि विवेकिना अभिचरणं क्रियते । न च
कर्म विधिप्रवृत्तिनिमित्ते भेदप्रत्यये वाधिते अग्निहोत्रादौ प्रत्र-
तेकं निमित्तमस्ति, परिव्राजकस्येव भिक्षाचरणादौ वुभुक्षादि
प्रवर्तकम् । इहाप्यकरणे प्रत्यवायभयं प्रवर्तकमिति चेत्, न,
भेदप्रत्ययवतोऽधिकृतत्वात् । भेदप्रत्ययवान् अनुपमर्दितभेदवु-
द्धिर्विद्यया यः, स कर्मण्यधिकृत इत्यवोचाम ; यो हि
अधिकृत: कर्मणि, तस्य तदकरणे प्रत्यवाय: ; न निवृत्ताधि-
कारस्य, गृहस्थस्येव, ब्रह्मचारिणो विशेषधर्माननुष्ठाने । एवं
तर्हि सर्वः स्वाश्रमस्थः उत्पन्नैकत्वप्रत्ययः परिव्राडिति चेत्,
न, स्वस्वामित्व भेदबुद्धयनिवृत्तेः, कर्मार्थत्वाच इतराश्रमा-
णाम् — 'अथ कर्म कुर्वीय' इति श्रुतेः । तस्मात् स्वस्वा-