2026-05-06 05:52:54 by ambuda-bot
This page has not been fully proofread.
२३.]
द्वितीयोऽध्यायः ।
.१२५
तत्रैवं सति यं भेदप्रत्ययमुपादाय कर्मविधयः प्रवृत्ताः, स
यस्योपमर्दितः 'सत्... एकमेवाद्वितीयम् ' ' तत्सत्यम् ' 'वि-
कारभेदोऽनृतम्' इत्येतद्वाक्यप्रमाणजनितेनैकत्वप्रत्ययेन, स
सर्वकर्मभ्यो निवृत्तः, निमित्तनिवृत्तेः; स च निवृत्तकर्मा
ब्रह्मसंस्थ उच्यते ; स च परिव्राडेव, अन्यस्यासंभवात्,
अन्यो हि अनिवृत्तभेदप्रत्ययः सोऽन्यत्पश्यञ्शृण्वन्मन्वा-
नो विजानन्निदं कृत्वेदं प्राप्नुयामिति हि मन्यते । तस्यैवं
कुर्वतो न ब्रह्मसंस्थता, वाचारम्भणमात्रविकारानृताभिसं-
धिप्रत्ययवत्त्वात् । न च असत्यमित्युपमर्दिते भेदप्रत्यये स-
त्यमिदमनेन कर्तव्यं मयेति प्रमाणप्रमेयबुद्धिरुपपद्यते-
आकाश इव तलमलबुद्धिर्विवेकिनः । उपमर्दितेऽपि भेद-
प्रत्यये कर्मभ्यो न निवर्तते चेत्, प्रागिव भेदप्रत्ययानुपम-
र्दनादेकत्वप्रत्ययविधायकं वाक्यमप्रमाणीकृतं स्यात् । अभ-
क्ष्यभक्षणादिप्रतिषेधवाक्यानां प्रामाण्यवत् युक्तमेकत्ववा -
प्रामाण्यम्, सर्वोपनिषदां तत्परत्वात् ।
कर्मविधीनामप्रामाण्यप्रसङ्ग इति चेत्, न, अनुपमर्दितभे-
दप्रत्ययवत्पुरुषविषये प्रामाण्योपपत्तेः स्वप्नादिप्रत्यय इव
प्राक्प्रवोधात् । विवेकिनामकरणात् कर्म विधिप्रामाण्यो-
च्छेद इति चेत्, न, काम्यविध्यनुच्छेददर्शनात् । न हि,
s. u. III. 19