2026-05-06 05:52:53 by ambuda-bot
This page has not been fully proofread.
१२४
छान्दोग्योपनिषद्भाष्ये
[ख.
ब्रह्मणि संस्थितिः, तस्य तस्य निमित्तवतो वाचकं सन्तं
ब्रह्मसंस्थशब्दं परिव्राडेकविषये संकोचे कारणाभावात् निरो-
द्रुमयुक्तम् । न च पारित्राज्याश्रमधर्ममात्रेणामृतत्वम्, ज्ञा-
नानर्थक्यप्रसङ्गात् । पारिव्राज्यधर्मयुक्तमेव ज्ञानममृतत्वसाध-
नमिति चेत्, न, आश्रमधर्मत्वाविशेषात् । धर्मो वा ज्ञान-
विशिष्टोऽमृतत्वसाधनमित्येतदपि सर्वाश्रमधर्माणामविशिष्टम् ।
न च वचनमस्ति परिव्राजकस्यैव ब्रह्मसंस्थस्य मोक्षः,
नान्येषाम् इति । ज्ञानान्मोक्ष इति च सर्वोपनिषदां सिद्धा-
न्तः । तस्माद्य एव ब्रह्मसंस्थः स्वाश्रमविहितधर्मवताम्,
सोऽमृतत्वमेतीति ॥
न, कर्मनिमित्तविद्याप्रत्यययोर्विरोधात् । कर्तादिकारक क्रि-
याफलभेदप्रत्ययवत्त्वं हि निमित्तमुपादाय इदं कुरु इदं मा
कार्षीः इति कर्मविधयः प्रवृत्ताः । तच्च निमित्तं न शास्त्रकृ-
तम्, सर्वप्राणिषु दर्शनात् । ' सत्... एकमेवाद्वितीयम्'
' आत्मैवेदं सर्वम्' ' ब्रह्मैवेदं सर्वम्' इति शास्त्रजन्यः प्रत्य-
यो विद्यारूपः स्वाभाविकं क्रियाकारकफलभेदप्रत्ययं कर्मवि-
धिनिमित्तमनुपमृद्य न जायते, भेदाभेदप्रत्यययोर्विरोधात् ।
न हि तैमिरिकद्विचन्द्रादिभेदप्रत्ययमनुपमृद्य तिमिरापगमे
चन्द्रायेकत्वप्रत्यय उपजायते, विद्याविद्याप्रत्यययोर्विरोधात् ।