Proofing

This page has not been fully proofread.

१३.]
 
द्वितीयोऽध्यायः ।
 
१२३
 
प्रणव सेवास्तुत्यर्थः, न तत्फलविध्यर्थः, स्तुतये च प्रणवसे-
वायाः, आश्रमधर्मफलविधये च, इति हि भिद्येत वाक्यम् ।
तस्मात्स्मृतिप्रसिद्धाश्रमफलानुवादेन प्रणवसेवाफलममृतत्वं त्रु-
वन् प्रणव सेवां स्तौति । यथा पूर्णवर्मणः सेवा भक्तपरिधा-
नमात्रफला, राजवर्मणस्तु सेवा राज्यतुल्यफलेति- तद्वत् ।
प्रणवश्च तत्सत्यं परं ब्रह्म तत्प्रतीकत्वात् । ' एतद्ध्येवाक्षरं
ब्रह्म एतद्ध्येवाक्षरं परम्' इत्याद्याम्नानात्काठके, युक्तं तत्से-
वातोऽमृतत्वम् ॥
 
अत्र आहुः केचित् - चतुर्णामाश्रमिणामविशेषेण स्वधर्मानु-
ष्ठानात्पुण्यलोकता इहोक्ता ज्ञानवर्जितानाम् 'सर्व एते पुण्यलो-
का भवन्ति' इति । नात्र परिव्राडवशेषितः ; परिव्राजकस्यापि
ज्ञानं यमा नियमाश्च तप एवेति ; तप एव द्वितीय इत्यत्र तपः-
शब्देन परिव्राट्तापसौ गृहीतौ । अतस्तेषामेव चतुर्णां यो
ब्रह्मसंस्थः प्रणवसेवकः सोऽमृतत्वमेतीति चतुर्णामधिकृत-
त्वाविशेषात्, ब्रह्मसंस्थत्वेऽप्रतिषेधाश्ञ्च, स्वकर्मच्छिद्रे च
ब्रह्मसंस्थतायां सामर्थ्योपपत्तेः । न च यववराहादिशब्दवत्
ब्रह्मसंस्थशब्दः परिव्राजके रूढः, ब्रह्मणि संस्थितिनिमित्त-
मुपादाय प्रवृत्तत्वात् । न हि रूढिशब्दा निमित्तमुपाददते ।
सर्वेषां च ब्रह्मणि स्थितिरुपपद्यते । यत्र यत्र निमित्तमस्ति