2026-05-06 05:52:53 by ambuda-bot
This page has not been fully proofread.
१२२
छान्दोग्योपनिषद्भाष्ये
[ख.
स्कन्धः गृहस्थसमवेतत्वात् तन्निर्वर्तकेन गृहस्थेन निर्दिश्यते ;
प्रथमः एक इत्यर्थः, द्वितीयतृतीयश्रवणात् न आद्यार्थ: ।
तप एव द्वितीय: ; तप इति कृच्छ्रचान्द्रायणादि तद्वान्
तापसः परिव्राड्डा, न ब्रह्मसंस्थ: आश्रमधर्ममात्र संस्थः, ब्रह्म-
संस्थस्य तु अमृतत्वश्रवणात् ; द्वितीय: धर्मस्कन्धः : । ब्रह्म-
चारी आचार्यकुले वस्तुं शीलमस्येत्याचार्यकुलवासी । अत्य-
न्तं यावज्जीवम् आत्मानं नियमैः आचार्यकुले अवसादयन्
क्षपयन् देहं तृतीयः धर्मस्कन्धः । अत्यन्तमित्यादिविशेषणान्नै-
ष्ठिक इति गम्यते । उपकुर्वाणस्य स्वाध्यायग्रहणार्थत्वात् न
पुण्यलोकत्वं ब्रह्मचर्येण । सर्व एते त्रयोऽप्याश्रमिणः यथो-
तैर्धर्मैः पुण्यलोका भवन्ति ; पुण्यो लोको येषां त इमे
पुण्यलोका आश्रमिणो भवन्ति । अवशिष्टस्त्वनुक्तः परि-
त्राट् तुरीयः ब्रह्मसंस्थ: ब्रह्मणि सम्यक्स्थितः, सोऽमृतत्वं
पुण्यलोकविलक्षणममरणभावमात्यन्तिकम् एति, न आपेक्षि-
कम्, देवाद्यमृतत्ववत्, पुण्यलोकात्पृथक् अमृतत्वस्य
विभागकरणात् ॥
यदि च पुण्यलोकातिशयमात्रममृतत्वमभविष्यत्, ततः
पुण्यलोकत्वाद्विभक्तं - नावक्ष्यत् । विभक्तोपदेशाच्च आत्यन्ति-
कममृतत्वमिति गम्यते । अत्र च आश्रमधर्मफलोपन्यासः