Proofing

This page has not been fully proofread.

त्रयोविंशः खण्डः ॥
 
-
 
यो धर्मस्कन्धा यज्ञोऽध्ययनं दान-
मिति प्रथमस्तप एव द्वितीयो ब्रह्मचा-
र्याचार्यकुलवासी तृतीयोऽत्यन्तमात्मा-
नमाचार्यकुलेऽवसादयन्सर्व एते पुण्य-
 
लोका भवन्ति
 
मेति ॥ १ ॥
 
ब्रह्मसँस्थोऽमृतत्व-
 
ओंकारस्योपासनविध्यर्थं त्रयो धर्मस्कन्धा इत्याचार-
भ्यते । नैवं मन्तव्यं सामावयवभूतस्यैवोद्गीथादिलक्षणस्यों-
कारस्योपासनात्फलं प्राप्यत इति; किं तर्हि, यत्सर्वैरपि
सामोपासनैः कर्मभिश्चाप्राप्यं तत्फलममृतत्वं केवलादोंकारो-
पासनात्प्राप्यत इति । तत्स्तुत्यर्थं सामप्रकरणे तदुपन्यासः ।
त्रयः त्रिसंख्याका धर्मस्य स्कन्धाः धर्मस्कन्धाः धर्मप्रवि-
भागा इत्यर्थः ; के ते इति, आह— यज्ञः अग्निहोत्रादिः,
अध्ययनं सनियमस्य ऋगादेरभ्यासः, दानं वहिर्वेदि यथा-
शक्ति द्रव्यसंविभागो भिक्षमाणेभ्यः, इति एषः प्रथमः धर्म-