Proofing

This page has not been fully proofread.

१२०
 
छान्दोग्योपनिषद्धाप्ये
 
व्या इन्द्रे बलं ददानीति सर्व ऊष्माणो-
sग्रस्ता अनिरस्ता विवृता वक्तव्याः प्र-
जापतेरात्मानं परिददानीति सर्वे स्पर्शा
लेशेनानभिनिहिता वक्तव्या मृत्योरा-
त्मानं परिहराणीति ॥ ५ ॥
 
इति द्वाविंशः खण्डः ॥
 
[ख.
 
यत इन्द्राद्यात्मानः स्वरादयः, अतः सर्वे स्वराः घोषवन्तः
बलवन्तो वक्तव्याः
तथा अहमिन्द्रे वलं ददानि वलमाद-
धानीति । तथा सर्वे ऊष्माण: अग्रस्ताः अन्तरप्रवेशिताः
अनिरस्ताः बहिरप्रक्षिप्ताः विवृताः विवृतप्रयत्नोपेताः । प्रजा-
पतेरात्मानं परिददानि प्रयच्छानीति । सर्वे स्पर्शाः लेशेन
शनकैः अनभिनिहिता: अनभिनिक्षिप्ता वक्तव्याः । मृत्यो-
रात्मानं बालानिव शनकैः परिहरन् मृत्योरात्मानं परिह-
राणीति ॥
 
इति द्वाविंशखण्डभाष्यम् ॥