2026-05-06 05:52:51 by ambuda-bot
This page has not been fully proofread.
२२.]
द्वितीयोऽध्यायः ।
११९
प्राणस्य
सर्वे स्वरा अकारादय इन्द्रस्य बलकर्मण:
आत्मान: देहावयवस्थानीयाः । सर्वे ऊष्माणः शषसहादय:
प्रजापतेर्विराजः कश्यपस्य वा आत्मानः । सर्वे स्पर्शाः
कादयो व्यञ्जनानि मृत्योरात्मानः । तमेवंविदमुद्गातारं यदि
कश्चित् स्वरेषूपालभेत - स्वरस्त्वया दुष्टः प्रयुक्त इति, एवमु-
पालब्धः इन्द्रं प्राणमीश्वरं शरणम् आश्रयं प्रपन्नोऽभूवं
स्वरान्प्रयुञ्जानोऽहम्, स इन्द्रः यत्तव वक्तव्यं त्वा त्वां प्रति
वक्ष्यति स एव देव उत्तरं दास्यतीत्येनं
ब्रूयात् ॥
अथ यद्येनमूष्मसूपालभेत प्रजापति
शरणं प्रपन्नोऽभूवं स त्वा प्रति पेक्ष्यती-
त्येनं ब्रूयादथ यद्येनं स्पर्शेषूपालभेत
मृत्यु शरणं प्रपन्नोऽभूवं स त्वा प्रति
धक्ष्यतीत्येनं ब्रूयात् ॥ ४ ॥
अथ यद्येनमूष्मसु तथैवोपालभेत, प्रजापतिं शरणं प्रप-
नोऽभूवम्, स त्वा प्रति पेक्ष्यति संचूर्णयिष्यतीत्येनं ब्रूयात् ।
अथ यद्येनं स्पर्शेषूपालभेत, मृत्युं शरणं प्रपन्नोऽभूवम्, स
त्वा प्रति धक्ष्यति भस्मीकरिष्यतीत्येनं ब्रूयात् ॥
सर्वे स्वरा घोषवन्तो बलवन्तो वक्त-