2026-05-06 05:52:50 by ambuda-bot
This page has not been fully proofread.
११८
छान्दोग्योपनिषद्भाष्ये
[ख.
ध्वान्तं भिन्नकांस्यस्वरसमं वरुणस्य एतद्द्वानम् । तान्सर्वाने-
वोपसेवेत प्रयुञ्जीत वारुणं त्वेवैकं वर्जयेत् ॥
अमृतत्वं देवेभ्य आगायानीत्यागाये-
त्स्वधां पितृभ्य आशां मनुष्येभ्यस्तृणो-
दकं पशुभ्यः स्वर्ग लोकं यजमानायान्न-
मात्मन आगायानीत्येतानि मनसा ध्या-
यन्नप्रमत्तः स्तुवीत ॥ २ ॥
अमृतत्वं देवेभ्य आगायानि साधयानि ; स्वधां पितृभ्य
आगायानि; आशां मनुष्येभ्यः, आशां प्रार्थनां प्रार्थितमि-
त्येतत् ; तृणोदकं पशुभ्य: ; स्वर्ग लोकं यजमानाय ; अन्नम्
आत्मने मह्यम् आगायानि; इत्येतानि मनसा चिन्तयन्
ध्यायन् अप्रमत्तः स्वरोष्मव्यञ्जनादिभ्यः स्तुवीत ॥
सर्वे स्वरा इन्द्रस्यात्मानः सर्व ऊष्मा -
णः प्रजापतेरात्मानः सर्वे स्पर्शा मृत्यो-
रात्मानस्तं यदि खरेषूपालभेतेन्द्र ५ शर-
णं प्रपन्नोऽभूवं स त्वा प्रति वक्ष्यतीत्येनं
ब्रूयात् ॥ ३ ॥