2026-05-06 05:52:49 by ambuda-bot
This page has not been fully proofread.
द्वात्रिंशः खण्डः ॥
विनर्दि साम्नो वृणे पशव्यमित्यग्नेरुद्गी-
धोऽनिरुक्तः प्रजापतेर्निरुक्तः सोमस्य मृदु
श्लक्ष्णं वायोः श्लक्ष्णं बलवदिन्द्रस्य क्रौञ्चं
वृहस्पतेरपध्वान्तं वरुणस्य तान्सर्वानेवो-
पसेवेत वारुणं त्वेव वर्जयेत् ॥ १ ॥
सामोपासनप्रसङ्गेन गानविशेषादिसंपत् उद्दातुरुपदिश्यते,
फलविशेषसंबन्धात् । विनर्दि विशिष्टो नर्दः स्वरविशेषः
ऋषभकूजितसमोऽस्यास्तीति विनर्दि गानमिति वाक्यशेषः ।
तच्च साम्नः संबन्धि पशुभ्यो हितं पशव्यम् अग्नेः अग्निदेवत्यं
च उद्गीथ: उद्गानम् । तदहमेवंविशिष्टं वृणे प्रार्थये इति क-
श्विद्यजमानः उद्गाता वा मन्यते । अनिरुक्तः अमुकसमः
इत्यविशेषितः प्रजापतेः प्रजापतिदेवत्यः स गानविशेष:, आ-
निरुक्त्यात्प्रजापतेः । निरुक्तः स्पष्टः । सोमस्य सोमदेवत्यः स
उद्गीथ इत्यर्थः । मृदु ऋक्ष्णं च गानं वायोः वायुदेवत्यं तत् ।
लक्ष्णं वलवच्च प्रयत्नाधिक्योपेतं च इन्द्रस्य ऐन्द्रं तद्गानम् ।
क्रौञ्चं क्रौञ्च पक्षिनिनादसमं बृहस्पते: बार्हस्पत्यं तत् । अप-