Proofing

This page has not been fully proofread.

११६
 
छान्दोग्योपनिषद्भाष्ये
 
[ख.
 
सर्वविषय सामविदः फलम् — सर्व ह भवति सर्वेश्वरो
भवतीत्यर्थः । निरुपचरितसर्वभावे हि दिक्स्थेभ्यो बलिप्रा-
प्यनुपपत्तिः ॥
 
तदेष श्लोको यानि पञ्चधा त्रीणि
त्रीणि तेभ्यो न ज्यायः परमन्यदस्ति ॥
 
तत् एतस्मिन्नर्थे एषः श्लोकः मत्रोऽप्यस्ति । यानि
पञ्चधा पञ्चप्रकारेण हिंकारादिविभागैः प्रोक्तानि त्रीणि
त्रीणि त्रयीविद्यादीनि तेभ्यः पञ्चत्रिकेभ्यः ज्यायः महत्तरं
परं च व्यतिरिक्तम् अन्यत् वस्त्वन्तरं नास्ति न विद्यत
इत्यर्थः । तत्रैव हि सर्वस्यान्तर्भावः ॥
 
यस्तद्वेद स वेद सर्व सर्वा दिशो
बलिमस्मै हरन्ति सर्वमस्मीत्युपासीत त-
द्व्रतं तद्व्रतम् ॥ ४॥
 
इति एकविंश: खण्ड: ॥
 
यः तत् यथोक्तं सर्वात्मकं साम वेद, स वेद सर्व स स-
र्वज्ञो भवतीत्यर्थः । सर्वा दिशः सर्वदिक्स्था अस्मै एवंविदे
बलिं भोगं हरन्ति प्रापयन्तीत्यर्थः । सर्वम् अस्मि भवामि
इति एवम् एतत्साम उपासीत, तस्य एतदेव व्रतम् । द्विरुक्तिः
सामोपासनसमाप्त्यर्था ।
 
इति एकविंशखण्डभाष्यम् ॥