2026-05-06 05:52:47 by ambuda-bot
This page has not been fully proofread.
एकविंशः खण्डः ॥
त्रयी विद्या हिंकारस्त्रय इमे लोकाः
स प्रस्तावोऽग्निर्वायुरादित्यः स उद्गीथो
नक्षत्राणि वयासि मरीचयः स प्रति-
हारः सर्पा गन्धर्वाः पितरस्तन्निधनमेत-
त्साम सर्वस्मिन्प्रोतम् ॥ १ ॥
त्रयी विद्या हिंकारः । अग्न्यादिसाम्न आनन्तर्य त्रयी-
विद्याया अग्न्यादिकार्यत्वश्रुतेः । हिंकार : प्राथम्यात्सर्वकर्त-
व्यानाम् । त्रय इमे लोकास्तत्कार्यत्वादनन्तरा इति प्रस्तावः ।
अग्न्यादीनामुद्द्रीयत्वं श्रेष्ठयात् । नक्षत्रादीनां प्रतिहतत्वा-
त्प्रतिहारत्वम् । सर्पादीनां धकारसामान्यान्निधनत्वम् । एत-
त्साम नामविशेषाभावात्सामसमुदायः सामशब्द: सर्वस्मिन्
प्रोतम् । त्रयीविद्यादि हि सर्वम् । त्रयीविद्यादिदृष्टया
हिंकारादिसामभक्तय उपास्या: । अतीतेष्वपि सामोपास-
नेषु येषु येषु प्रोतं यद्यत्साम, तद्दृष्ट्या तदुपास्यमिति ।
कर्माङ्गानां दृष्टिविशेषेणेवाज्यस्य संस्कार्यत्वात् ॥
स य एवमेतत्साम सर्वस्मिन्प्रोतं वेद
सर्व५ ह भवति ॥ २॥