Proofing

This page has not been fully proofread.

विंशः खण्डः ॥
 
अग्निहिकारो वायुः प्रस्ताव आदित्य
उद्गीथो नक्षत्राणि प्रतिहारश्चन्द्रमा निध-
नमेतद्राजनं देवतासु प्रोतम् ॥ १ ॥
 
अग्नि: हिंकारः, प्रथमस्थानत्वात् । वायुः प्रस्ताव:, आन-
न्तर्यसामान्यात् । आदित्यः उद्गीथः, श्रेष्ठयात् । नक्षत्राणि
प्रतिहारः, प्रतिहृतत्वात् । चन्द्रमा निधनम्, कर्मिणां तन्निध-
नात् । एतद्राजनं देवतासु प्रोतम्, देवतानां दीप्तिमत्त्वात् ॥
स य एवमेतद्राजनं देवतासु प्रोतं
वेदैतासामेव देवतानाँ सलोकताँ सा-
ष्टिता सायुज्यं गच्छति सर्वमायुरेति
ज्योग्जीवति महान्प्रजया पशुभिर्भवति
महान्कीर्त्या ब्राह्मणान्न निन्देत्तद्व्रतम् ॥
 
विद्वत्फलम् - एतासामेवाग्न्यादीनां देवतानां सलोकतां
समानलोकतां साष्र्ष्टितां समानर्द्धित्वं सायुज्यं सयुग्भावम्
एकदेहदेद्दित्वमित्येतत्, वा-शब्दोऽत्र लुप्तो द्रष्टव्यः ; सलो-
कतां वा इत्यादि ; भावनाविशेषतः फलविशेषोपपत्तेः । ग-
च्छति प्राप्नोति ; समुञ्चयानुपपत्तेश्च । ब्राह्मणान् न निन्देत्
तद्व्रतम् । 'एते वै देवाः प्रत्यक्षं यद्ब्राह्मणाः' इति श्रुतेः
ब्राह्मणनिन्दा देवतानिन्दैवेति ॥
 
इति विंशखण्डभाष्यम् ॥