2026-05-06 05:52:46 by ambuda-bot
This page has not been fully proofread.
एकोनविंशः खण्डः ॥
लोम हिंकारस्त्वक्प्रस्तावो माँसमु-
गीथोऽस्थि प्रतिहारो मज्जा निधनमेतद्य-
ज्ञायज्ञीयमङ्गेषु प्रोतम् ॥ १ ॥
लोम हिंकारः, देहावयवानां प्राथम्यात् । त्वक् प्रस्तावः,
आनन्तर्यात् । मांसम् उद्गीथः, श्रेष्ठयात् । अस्थि प्रतिहारः,
प्रतिहृतत्वात् । मज्जा निधनम्, आन्त्यात् । एतद्यज्ञाय-
ज्ञीयं नाम साम देहावयवेषु प्रोतम् ॥
स य एवमेतद्यज्ञायज्ञीयमङ्गेषु प्रोतं
वेदाङ्गी भवति नाङ्गेन विहूर्छति सर्वमा-
युरेति ज्योग्जीवति महान्प्रजया पशु-
भिर्भवति महान्कीर्त्या संवत्सरं मज्ज्ञो
नाश्नीयात्तद्रतं मज्ज्ञो नाश्नीयादिति वा ॥
अङ्गी भवति समग्राङ्गो भवतीत्यर्थः । नानेन हस्तपादा-
दिना विहूर्छति न कुटिलीभवति, पङ्गुः कुणी वा इत्यर्थः ।
संवत्सरं संवत्सरमात्रं मज्ज्ञो मांसानि नाश्रीयात् न भक्ष-
येत् । बहुवचनं मत्स्योपलक्षणार्थम् । मज्ज्ञो नाश्नीयात्
सर्वदैव नाभीयादिति वा, तद्व्रतम् ॥
इति एकोनविंशखण्डभाष्यम् ॥