2026-05-06 05:52:46 by ambuda-bot
This page has not been fully proofread.
अष्टादशः खण्डः ॥
अजा हिंकारोऽवयः प्रस्तावो गाव
उद्गीथोऽश्वाः प्रतिहारः पुरुषो निधनमेता
रेवत्यः पशुषु प्रोताः ॥ १ ॥
अजा हिंकार इत्यादि पूर्ववत् । पशुषु प्रोताः ॥
स य एवमेता रेवत्यः पशुषु प्रोता वेद
पशुमान्भवति सर्वमायुरेति ज्योग्जीवति
महान्प्रजया पशुभिर्भवति महान्कीर्त्या
पशून्न निन्देत्तद्व्रतम् ॥ २ ॥
इति अष्टादशः खण्डः ॥
पशून न निन्देत् तद्व्रतम् ॥
इति अष्टादशखण्डभाष्यम् ॥
अजा हिंकारोऽवयः प्रस्तावो गाव
उद्गीथोऽश्वाः प्रतिहारः पुरुषो निधनमेता
रेवत्यः पशुषु प्रोताः ॥ १ ॥
अजा हिंकार इत्यादि पूर्ववत् । पशुषु प्रोताः ॥
स य एवमेता रेवत्यः पशुषु प्रोता वेद
पशुमान्भवति सर्वमायुरेति ज्योग्जीवति
महान्प्रजया पशुभिर्भवति महान्कीर्त्या
पशून्न निन्देत्तद्व्रतम् ॥ २ ॥
इति अष्टादशः खण्डः ॥
पशून न निन्देत् तद्व्रतम् ॥
इति अष्टादशखण्डभाष्यम् ॥