2026-05-06 05:52:45 by ambuda-bot
This page has not been fully proofread.
पञ्चदशः खण्डः ॥
अभ्राणि संप्लवन्ते स हिंकारो मेघो
जायते स प्रस्तावो वर्षति स उद्गीथो
विद्योतते स्तनयति स प्रतिहार उद्गृह्णा-
ति तन्निधनमेतद्वैरूपं पर्जन्ये प्रोतम् ॥ १ ॥
अभ्राणि अब्भरणात् । मेघः उदकसेक्तत्वात् । उक्तार्थम-
न्यत् । एतद्वैरूपं नाम साम पर्जन्ये प्रोतम् । अनेकरूपत्वात्
अभ्रादिभिः पर्जन्यस्य, वैरूप्यम् ॥
स य एवमेतद्वैरूपं पर्जन्ये प्रोतं वेद
विरूपाश्च सुरूपाश्च पशूनवरुन्धे स-
र्वमायुरेति ज्योग्जीवति महान्प्रजया प-
शुभिर्भवति महान्कीर्त्या वर्षन्तं न नि-
न्देत्तद्व्रतम् ॥ २ ॥
इति पञ्चदशः खण्डः ॥
विरूपांश्च सुरूपांश्चाजाविप्रभृतीन्पशूनवरुन्धे प्राप्नोतीत्य-
र्थः वर्षन्तं न निन्देत् तंद्व्रतम् ॥
इति पञ्चदशखण्डभाष्यम् ॥
S. u. III. 18