Proofing

This page has not been fully proofread.

चतुर्दशः खण्डः ॥
 
उद्यन्हिकार उदितः प्रस्तावो मध्यं-
दिन उद्गीथोऽपराह्णः प्रतिहारोऽस्तं यन्नि-
धनमेतद्बृहदादित्ये प्रोतम् ॥ १ ॥
 
उद्यन्सविता स हिंकार:, प्राथम्याद्दर्शनस्य । उदितः
प्रस्ताव:, प्रस्तवनहेतुत्वात्कर्मणाम् । मध्यंदिन उद्गीथः,
श्रैष्ठयात् । अपराह्नः प्रतिहारः पश्वादीनां गृहान्प्रति हर-
णात् । यदस्तं यंस्तन्निधनम्, रात्रौ गृहे निधानात्प्राणि-
नाम्। एतद्बृहत् आदित्ये प्रोतम, वृहतः आदित्यदैवत्यत्वात् ॥
 
"
 
स य एवमेतद्दृहदादित्ये प्रोतं वेद ते-
जस्त्र्यन्नादो भवति सर्वमायुरेति ज्यो-
ग्जीवति महान्प्रजया पशुभिर्भवति म-
हान्कीर्त्या तपन्तं न निन्देत्तद्व्रतम् ॥ २ ॥
इति चतुर्दशः खण्डः ॥
 
स य इत्यादि पूर्ववत् । तपन्तं न निन्देत् ; तद्व्रतम् ॥
 
इति चतुर्दशखण्डभाष्यम् ॥