Proofing

This page has not been fully proofread.

१३.]
 
द्वितीयोऽध्यायः ।
 
१०७
 
जया पशुभिर्भवति महान्कीया न. कां-
चन परिहरेत्तद्व्रतम् ॥ २ ॥
 
इति त्रयोदशः खण्डः ॥
 
स य इत्यादि पूर्ववत् । मिथुनीभवति अविधुरो भवती-
त्यर्थः । मिथुनान्मिथुनात्प्रजायते इति अमोघरेतस्त्वमु-
च्यते । न कांचन, कांचिदपि स्त्रियं स्वात्मतल्पप्राप्तां न परि-
हरेत् समागमार्थिनीम्, वामदेव्यसामोपासनाङ्गत्वेन विधा-
नात् । एतस्मादन्यत्र प्रतिषेधस्मृतयः । वचनप्रामाण्याच
धर्मावगर्न प्रतिषेधशास्त्रेणास्त्र विरोधः ॥
 
इति त्रयोदशखण्डभाष्यम् ॥