2026-05-06 05:52:43 by ambuda-bot
This page has not been fully proofread.
द्वादशः खण्डः ॥
अभिमन्धति स हिंकारो धूमो जायते
स प्रस्तावो ज्वलति स उद्गीथोऽङ्गारा
भवन्ति स प्रतिहार उपशाम्यति तन्न-
धनँ सशाम्यति तन्निधनमेतद्रथंतरम-
नौ प्रोतम् ॥ १ ॥
अभिमन्थति स हिंकारः, प्राथम्यात् । अग्नेर्धूमो जायते
स प्रस्तावः, आनन्तर्यात् । ज्वलति स उद्गीथ:, हविः सं-
बन्धाच्छ्रेष्ठ्यं ज्वलनस्य । अङ्गारा भवन्ति स प्रतिहारः,
अङ्गाराणां प्रतिहृतत्वात् । उपशमः, सावशेषत्वादग्नेः, सं-
शम: निःशेषोपशमः; समाप्तिसामान्यान्निधनम् । एतद्रथं-
अग्नौ प्रोतम् । मन्थने हि अग्निर्गीयते ॥
तरम्
स य एवमेतद्रथंतरमग्नौ प्रोतं वेद ब्रह्म-
वर्चस्यन्नादो भवति सर्वमायुरेति ज्योग्जी-
वति महान्प्रजया पशुभिर्भवति महान्की-
र्त्या न प्रत्यङ्ङग्निमाचामेन्न निष्ठीवेत्तद्व्रतम् ॥
स य इत्यादि पूर्ववत् । ब्रह्मवर्चसी वृत्तस्वाध्यायनिमित्तं
तेजो ब्रह्मवर्चसम् । तेजस्तु केवलं त्विड्भावः । अन्नादो दी-
प्राग्निः । न प्रत्यक्, अग्नेरभिमुखो न आचामेत् न भक्षये-
त्किंचित् ; न निष्ठीवेत् श्लेष्मनिरसनं च न कुर्यात् ; तद्व्रतम् ॥
इति द्वादशखण्डभाष्यम् ॥