2026-05-06 05:52:42 by ambuda-bot
This page has not been fully proofread.
एकादशः खण्डः ॥
मनो हिंकारो वाक्प्रस्तावश्चक्षुरुद्गीथः
श्रोत्रं प्रतिहारः प्राणो निधनमेतद्गायत्रं
प्राणेषु प्रोतम् ॥ १ ॥
विना नामग्रहणं पञ्चविधस्य सप्तविधस्य च साम्न उपा-
सनमुक्तम् । अथेदानीं गायत्रादिनामग्रहणपूर्वकं विशिष्टफ-
लानि सामोपासनान्तराण्युच्यन्ते । यथाक्रमं गायत्रादीनां
कर्मणि प्रयोग:, तथैव मनो हिंकार:, मनसः सर्वकरणवृत्ती-
नां प्राथम्यात् । तदानन्तर्यात् वाक् प्रस्ताव: ; चक्षुः उद्गीथः,
श्रेष्ठयात् । श्रोत्रं प्रतिहारः, प्रतिहृतत्वात् । प्राणो निधनम्,
यथोक्तानां प्राणे निधनात्स्वापकाले । एतद्गायत्रं साम प्राणेषु
प्रोतम्, गायत्र्याः प्राणसंस्तुतत्वात् ॥
स एवमेतद्गायत्रं प्राणेषु प्रोतं वेद
प्राणी भवति सर्वमायुरेति ज्योग्जीवति
महान्प्रजया पशुभिर्भवति महान्कीर्त्या
महामनाः स्यात्तद्व्रतम् ॥ २ ॥
सः, य एवमेतद्गायत्रं प्राणेषु प्रोतं वेद, प्राणी भवति ; अवि-
कलकरणो भवतीत्येतत् । सर्वमायुरेति, शतं वर्षाणि सर्वमायुः
पुरुषस्य इति श्रुतेः । ज्योक् उज्ज्वलः सन् जीवति । महान्
भवति प्रजादिभिः । महांश्व कीर्त्या । गायत्रोपासकस्य एतत्
व्रतं भवति, यत् महामना: अक्षुद्रचित्तः स्यादित्यर्थः ॥
इति एकादशखण्डभाष्यम् ॥