Proofing

This page has not been fully proofread.


 
१०.]
 
द्वितीयोऽध्यायः ।
 
१०३
 
तत्रैकविंशत्यक्षरसंख्यया आदित्यमाप्नोति मृत्युम् । यस्मा-
देकविंशः इतः अस्माल्लोकात् असावादित्यः संख्यया ।
द्वादश मासाः पञ्चर्तवस्त्रय इमे लोका असावादित्य एक-
विश:' इति श्रुतेः; अतिशिष्टेन द्वाविंशेनाक्षरेण परं मृत्योः
आदित्यान् जयति आप्नोतीत्यर्थः । यच तदादित्यात्परम; किं
तन् ? नाकम्, कमिति सुखं तस्य प्रतिषेधोऽकं तन्न भवतीति
नाकम्, कमेवेत्यर्थः, अमृत्युविषयत्वात् । विशोकं च तत् वि-
गतशोकं मानसदुःखरहितमित्यर्थः — तदाप्नोतीति ॥
 
आनोति हादित्यस्य जयं परो हास्या-
दिव्यजयाज्जयो भवति य एतदेवं विद्वा-
नात्मसंमितमतिमृत्यु सप्तविध‍ सामो-
पास्ते सामोपास्ते ॥ ६ ॥
 
इति दशमः खण्डः ॥
 
उक्तस्यैव पिण्डितार्थमाह — एकविंशतिसंख्यया आदित्य-
स्य जयमनु, परो ह, अस्य एवंविदः आदित्यजयात मृत्युगो -
चरात् परो जयो भवति, द्वाविंशत्यक्षरसंख्ययेत्यर्थः । य एत-
देवं विद्वानित्याद्युक्तार्थम्, तस्यैतद्यथोक्तं फलमिति । द्विरभ्या-
सः साप्तविध्यसमाप्त्यर्थः ॥
 
इति दशमखण्डभाष्यम् ॥