Proofing

This page has not been fully proofread.

पञ्चमः खण्डः ।
 
२९३
 
लं निष्क्रियं शान्तम् एकम् अद्वयं नेति नेतीति सर्वविशेषा-
पोहसंवेद्यं सर्वशब्दप्रत्ययागोचरं तदत्यन्तविशुद्धप्रज्ञोपाधिसं-
बन्धेन सर्वज्ञमीश्वरं सर्वसाधारणाव्याकृतजगद्बीजप्रवर्तकं नि-
यन्तृत्वादन्तर्यामिसंज्ञं भवति । तदेव व्याकृतजगद्बीजभूतबु-
द्धद्यात्माभिमानलक्षणं हिरण्यगर्भसंज्ञं भवति । तदेव अन्तर-
ण्डोद्भूतप्रथमशरीरोपाधिमत् विराट्प्रजापतिसंज्ञं भवति ।
तदुद्भूताग्न्याद्युपाधिमत् देवतासंज्ञं भवति । तथा विशेष-
शरीरोपाधिष्वपि ब्रह्मादिस्तम्बपर्यन्तेषु तत्तन्नामरूपलाभो
ब्रह्मण: । तदेवैकं सर्वोपाधिभेदभिन्नं सर्वैः प्राणिभिस्ता-
र्किकैश्च सर्वप्रकारेण ज्ञायते विकल्प्यते च अनेकधा । ' एत-
मेके वदन्त्यग्निं मनुमन्ये प्रजापतिम् । इन्द्रमेकेऽपरे प्राणम-
परे ब्रह्म शाश्वतम्' इत्याद्या स्मृतिः ॥
 
स एतेन प्रज्ञेनात्मनास्माल्लोकादुत्क्र-
म्यामुष्मिन्स्वर्गे लोके सर्वान्कामाना-
प्त्वामृतः समभवत्समभवत् ॥ ४ ॥
इति पञ्चमः खण्डः ॥
 
स वामदेवोऽन्यो वा एवं यथोक्तं ब्रह्म वेद प्रज्ञेनात्मना,
येनैव प्रज्ञेन आत्मना पूर्वे विद्वांसोऽमृता अभूवन् तथा