2026-05-06 06:33:48 by ambuda-bot
This page has not been fully proofread.
२९२
ऐतरेयोपनिषद्भाष्ये
र्यप्रतिबिम्बवत् हिरण्यगर्भः प्राणः प्रज्ञात्मा । एष एव इन्द्रः
गुणात्, देवराजो वा । एष प्रजापतिः यः प्रथमजः शरीरी ;
यतो मुखादिनिर्भेदद्वारेणाग्न्यादयो लोकपाला जाता:, स
प्रजापतिरेष एव । येऽपि एते अग्न्यादयः सर्वे देवा एष एव ।
इमानि च सर्वशरीरोपादानभूतानि पञ्च पृथिव्यादीनि म-
हाभूतानि अन्नान्नादत्वलक्षणानि एतानि । किंच, इमानि च
क्षुद्रमिश्राणि क्षुद्रैरल्पकैर्मिश्राणि, इवशब्दः अनर्थकः, सर्पा-
दीनि । बीजानि कारणानि इतराणि चेतराणि च द्वैराश्येन
निर्दिश्यमानानि । कानि तानि ? उच्यन्ते – अण्डजानि पक्ष्या-
दीनि, जारुजानि जरायुजानि मनुष्यादीनि, स्वेदजानि यूका-
दीनि, उद्भिज्जानि च वृक्षादीनि । अश्वाः गाव: पुरुषाः हस्तिन:
अन्यच्च यत्किंचेदं प्राणि । किं तत् ? जङ्गमं यच्चलति पद्भयां
गच्छति ; यश्च पतत्रि आकाशेन पतनशीलम् ; यच्च स्थाव-
रम् अचलम् ; सर्वे तत् अशेषत: प्रज्ञानेत्रम्, प्रज्ञप्तिः प्रज्ञा, तच्च
ब्रह्मैव, नीयतेऽनेनेति नेत्रम्, प्रज्ञा नेत्रं यस्य तदिदं प्रज्ञाने -
त्रम् ; प्रज्ञाने ब्रह्मण्युत्पत्तिस्थितिलयकालेषु प्रतिष्ठितम्, प्र-
ज्ञाश्रयमित्यर्थः । प्रज्ञानेत्रो लोकः पूर्ववत् ; प्रज्ञाचक्षुर्वा सर्व
एव लोक: 5: । प्रज्ञा प्रतिष्ठा सर्वस्य जगत: । तस्मात् प्रज्ञानं
ब्रह्म । तदेतत्प्रत्यस्तमितसर्वोपाधिविशेषं सत् निरञ्जनं निर्म-