Proofing

This page has not been fully proofread.

पञ्चमः खण्डः ।
 
२९१
 
माद्या अन्तःकरणवृत्तयः उपलब्धुरुपलब्ध्यर्थत्वाच्छुद्धप्रज्ञा-
नरूपस्य ब्रह्मण उपाधिभूतास्तदुपाधिजनितगुणनामधेयानि
संज्ञानादीनि सर्वाण्येवैतानि प्रज्ञप्तिमात्रस्य प्रज्ञानस्य नामधे -
यानि भवन्ति, न स्वतः साक्षात् । तथा चोक्तम् ' प्राणन्नेव
प्राणो नाम भवति' इत्यादि ॥
 
एष ब्रह्मैष इन्द्र एष प्रजापतिरेते सर्वे
देवा इमानि च पञ्च महाभूतानि पृथिवी
वायुराकाश आपो ज्योतींषीत्येतानीमा-
नि च क्षुद्रमिश्राणीव । बीजानीतराणि
चेतराणि चाण्डजानि च जारुजानि च
स्वेदजानि चोद्भिज्जानि चाश्वा गावः पुरु-
षा हस्तिनो यत्किंचेदं प्राणि जङ्गमं च प-
तत्रि च यच्च स्थावरम् । सर्वं तत्प्रज्ञानेत्रं
प्रज्ञाने प्रतिष्ठितं प्रज्ञानेत्रो लोकः प्रज्ञा
प्रतिष्ठा प्रज्ञानं ब्रह्म ॥ ३ ॥
 
स एषः प्रज्ञानरूप आत्मा ब्रह्म अपरं सर्वशरीरस्थः प्रा-
णः प्रज्ञात्मा अन्तःकरणोपाधिष्वनुप्रविष्टो जलभेद्गतसू-