2026-05-06 06:33:45 by ambuda-bot
This page has not been fully proofread.
२९०
ऐतरेयोपनिषद्भाष्ये
प्रज्ञा या वै प्रज्ञा स प्राण:' इति हि ब्राह्मणम् ।
करण संहतिरूपश्च प्राण इत्यवोचाम प्राणसंवादादौ । तस्मा-
द्यत्पद्भयां प्रापद्यत, तद्ब्रह्म तदुपलब्धुरुपलब्धिकरणत्वेन गुण-
भूतत्वान्नैव तद्वस्तु ब्रह्म उपास्य आत्मा भवितुमर्हति । पा-
रिशेध्याद्यस्योपलब्धुरुपलब्ध्यर्था एतस्य हृदय मनोरूपस्य
करणस्य वृत्तयो वक्ष्यमाणाः, स उपलब्धा उपास्य आत्मा
नोऽस्माकं भवितुमर्हतीति निश्चयं कृतवन्तः । तदन्तःकरणो-
पाधिस्थस्योपलब्धुः प्रज्ञानरूपस्य ब्रह्मण उपलब्ध्यर्था या
अन्तःकरणवृत्तयो बाह्यान्तर्वर्तिविषयविषया:, ता इमा उच्य-
ते - संज्ञानं संज्ञप्तिः चेतनभावः ; आज्ञानम् आज्ञप्ति:
ईश्वरभाव: ; विज्ञानं कलादिपरिज्ञानम्; प्रज्ञानं प्रज्ञप्तिः
प्रज्ञता; मेधा ग्रन्थधारणसामर्थ्यम् दृष्टि: इन्द्रियद्वारा
सर्वविषयोपलब्धिः; धृतिः धारणम् अवसन्नानां शरीरेन्द्रियाणां
ययोत्तम्भनं भवति ; ' धृत्या शरीरमुद्वहन्ति' इति हि वदन्ति;
मति: मननम् ; मनीषा तत्र स्वातन्त्र्यम्; जूति: चेतसो
रुजादिदुःखित्वभावः; स्मृतिः स्मरणम् ; संकल्पः शुक्लकृष्णा-
दिभावेन संकल्पनं रूपादीनाम्; ऋतुः अध्यवसायः ; असुः
प्राणनादिजीवनक्रियानिमित्ता वृत्तिः; कामः असंनिहितवि-
षयाकाङ्क्षा तृष्णा ; वशः स्त्रीव्यतिकराद्यभिलाषः ; इत्येव-