2026-05-06 06:33:46 by ambuda-bot
This page has not been fully proofread.
पञ्चमः खण्डः ।
२८९
यदेतद्धृदयं मनश्चैतत् । संज्ञानमाज्ञानं
विज्ञानं प्रज्ञानं मेधा दृष्टिर्धृतिर्मतिर्मनीषा
जूतिः स्मृतिः संकल्पः क्रतुरसुः कामो
वश इति । सर्वाण्येवैतानि प्रज्ञानस्य नाम-
धेयानि भवन्ति ॥ २ ॥
किं पुनस्तदेकमनेकधा भिन्नं करणमिति, उच्यते । यदुक्तं
पुरस्तात् प्रजानां रेतो हृदयं हृदयस्य रेतो मनः मनसा सृष्टा
आपश्च वरुणश्च हृदयान्मनो मनसश्चन्द्रमाः, तदेवैतद्धृदयं
मनश्च एकमेव तदनेकधा । एतेनान्तःकरणेनैकेन चक्षुर्भूतेन
रूपं पश्यति, श्रोत्रभूतेन शृणोति, ब्राणभूतेन जिघ्रति,
वाग्भूतेन वदति, जिह्वाभूतेन रसयति, स्वेनैव विकल्पना-
रूपेण मनसा संकल्पयति, हृदयरूपेणाध्यवस्यति । तस्मा-
त्सर्वकरणविषयव्यापारकमेकमिदं करणं सर्वोपलब्ध्यर्थमुप-
लब्धुः । तथा च कौषीतकिनाम् ' प्रज्ञया वाचं समारुह्य
वाचा सर्वाणि नामान्याप्नोति प्रज्ञया चक्षुः समारुह्य चक्षुषा
सर्वाणि रूपाण्याप्नोति' इत्यादि । वाजसनेयके च-
"
मनसा ह्येव पश्यति मनसा शृणोति हृदयेन हि रूपाणि
विजानाति' इत्यादि । तस्माद्धृदयमनोवाच्यस्य सर्वोपलब्धि-
करणत्वं प्रसिद्धम् । तदात्मकश्च प्राणः 'यो वै प्राणः, सा
s. C. 11. 19