2026-05-06 06:33:46 by ambuda-bot
This page has not been fully proofread.
२८८
ऐतरेयोपनिषद्भाष्ये
वामदेव: अमृतः समभवत्; तमेव वयमप्युपास्महे को नु
खलु स आत्मेति एवं जिज्ञासापूर्वमन्योन्यं पृच्छताम्
अतिक्रान्तविशेषविषयश्रुतिसंस्कारजनिता स्मृतिरजायत --
तम्
'प्रपदाभ्यां प्रापयत ब्रह्मेमं पुरुषम् ' ' स एतमेव सीमानं
विदार्य एतया द्वारा प्रापद्यत' एतमेव पुरुषं द्वे ब्रह्मणी
इतरेतरप्रातिकूल्येन प्रतिपन्ने -- इति । ते चास्य पिण्डस्यात्म-
भूते । तयोरन्यतर आत्मोपास्यो भवितुमर्हति । योऽत्रो-
पास्यः, कतर: स आत्मा इति विशेषनिर्धारणार्थं पुनरन्योन्यं
पप्रच्छुर्विचारयन्तः । पुनस्तेषां विचारयतां विशेषविचा-
रणास्पदविषया मतिरभूत् । कथम्? द्वे वस्तुनी अस्मि-
न्पिण्डे उपलभ्येते -- अनेकभेदभिन्नेन करणेन येनोपल-
भते, यश्चैक उपलभते, करणान्तरोपलब्धिविषयस्मृतिप्रति-
संधानात् । तत्र न तावत् येनोपलभते, स आत्मा भवि-
तुमर्हति । केन पुनरुपलभत इति, उच्यते-- येन वा चक्षु-
र्भूतेन रूपं पश्यति, येन वा शृणोति श्रोत्रभूतेन
शब्दम्, येन वा घ्राणभूतेन गन्धानाजिघ्रति, येन वा
वाक्करणभूतेन वाचं नामात्मिकां व्याकरोति गौरश्व इत्ये-
वमाद्याम्, साध्वसाध्विति च येन वा जिल्हाभूतेन स्वादु च
अस्वादु च विजानातीति ॥