Proofing

This page has not been fully proofread.

तृतीयोऽध्यायः ॥
 
ब्रह्मविद्यासाधनकृतसर्वात्मभा
 
वफलावाप्तिं वामदेवाद्याचार्यपरम्परया
 
पारम्पर्यश्रुत्यावद्योत्यमानां ब्रह्मवित्प-
रिषद्यत्यन्तप्रसिद्धाम् उपलभमाना मु-
 
मुक्षवो ब्राह्मणा अधुनातनाः ब्रह्म
जिज्ञासवः अनित्यात्साध्यसाधनलक्ष-
 
णात्संसारात् आ जीवभावाद्व्याविवृत्सवो विचारयन्तः अन्यो-
 
-
 
न्यं पृच्छन्ति । कथम् ?-
 
कोऽयमात्मेति वयमुपास्महे कतरः स
आत्मा येन वा पश्यति येन वा शृणोति
'येन वा गन्धानाजिघ्रति येन वा वाचं
व्याकरोति येन वा स्वादु चास्वादु च
विजानाति ॥ १ ॥
 
यमात्मानम् अयमात्मा इति साक्षात् वयमुपास्महे
कः स आत्मेति ; यं चात्मानमयमात्मेति साक्षादुपासीनो