Proofing

This page has not been fully proofread.

२८४
 
ऐतरेयोपनिषद्भाष्ये
 
त्क्रम्यामुष्मिन्खर्गे लोके सर्वान्कामाना-
पत्वामृतः समभवत्समभवत् ॥ ६॥
इति चतुर्थः खण्डः ॥
 
सः वामदेवः ऋषिः यथोक्तमात्मानम् एवं विद्वान् अ-
स्मात् शरीरभेदात् शरीरस्य अविद्यापरिकल्पितस्य आयसवद-
निर्भेद्यस्य जननमरणाद्यनेकानर्थशता विष्टशरीरप्रबन्धस्य पर-
मात्मज्ञानामृतोपयोगजनितवीर्यकृतभेदात् शरीरोत्पत्तिबीजा-
विद्यादिनिमित्तोपमर्दहेतोः शरीरविनाशादित्यर्थः । ऊर्ध्वः पर-
मात्मभूतः सन् अधोभवात्संसारात् उत्क्रम्य ज्ञानावद्योति-
तामल सर्वात्मभावमापन्नः सन् अमुष्मिन् यथोक्ते अजरेऽमरे-
ऽमृतेऽभये सर्वज्ञेऽपूर्वेऽनपरेऽनन्तरेऽबाह्ये प्रज्ञानामृतैकरसे
स्वर्गे लोके स्वस्मिन्नात्मनि स्त्रे स्वरूपे अमृतः समभवत् आ-
त्मज्ञानेन पूर्वमाप्तकामतया जीवन्नेव सर्वान्कामानाप्त्वा इत्य-
र्थः । द्विर्वचनं सफलस्य सोदाहरणस्य आमज्ञानस्य परि-
समाप्तिप्रदर्शनार्थम् ॥
 
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्द-
भगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ
ऐतरेयोपनिषद्भाष्ये द्वितीयोऽध्यायः ॥