Proofing

This page has not been fully proofread.

चतुर्थः खण्डः ।
 
२८३
 
तदुक्तमृषिणा । गर्भे तु सन्नन्वेषामवे-
दमहं देवानां जनिमानि विश्वा । शतं मा
पुर आयसीररक्षन्नधः श्येनो जवसा निर-
दीयमिति गर्भ एवैतच्छयानो वामदेव
एवमुवाच ॥ ५॥
 
एवं संसरन्नवस्थाभिव्यक्तित्रयेण जन्ममरणप्रबन्धारूढः
सर्वो लोकः संसारसमुद्रे निपतितः कथंचिद्यदा श्रुत्युक्तमा-
त्मानं विजानाति यस्यां कस्यांचिदवस्थायाम्, तदैव मुक्तस-
र्वसंसारबन्धनः कृतकृत्यो भवतीत्येतद्वस्तु, तत् ऋषिणा म-
न्त्रेणापि उक्तमित्याह— गर्भे नु मातुर्गर्भाशय एव सन्, नु
इति वितर्के । अनेकजन्मान्तरभावनापरिपाकवशात् एषां
देवानां वागग्न्यादीनां जनिमानि जन्मानि विश्वा विश्वानि
सर्वाणि अन्ववेदम् अहम् अहो अनुबुद्धवानस्मीत्यर्थः । शतम्
अनेकाः बह्वयः मा मां पुरः आयसी: आयस्यो लोहमय्य इवा-
भेद्यानि शरीराणीत्यभिप्रायः । अरक्षन् रक्षितवत्यः संसार-
पाशनिर्गमनात् अधः । अथ श्येन इव जालं भित्त्वा जवसा
आत्मज्ञानकृतसामर्थ्येन निरदीयं निर्गतोऽस्मि । अहो गर्भ
एव शयानो वामदेवः ऋषिः एवमुवाच एतत् ॥
 
1
 
स एवं विद्वानस्माच्छरीरभेदादूर्ध्व उ-