Proofing

This page has not been fully proofread.

२८२
 
ऐतरेयोपनिषद्भाष्ये
 
कृतकृत्यो वयोगतः प्रैति स इतः प्रय-
न्नेव पुनर्जायते तद्स्य तृतीयं जन्म ॥ ४ ॥
 
अस्य पितुः सोऽयं पुत्रात्मा पुण्येभ्यः शास्त्रोक्तेभ्यः क-
र्मभ्यः कर्मनिष्पादनार्थं प्रतिधीयते पितुः स्थाने पित्रा यत्क -
र्तव्यं तत्करणाय प्रतिनिधीयत इत्यर्थः । तथा च संप्रत्ति-
विद्यायां वाजसनेयके ' पित्रानुशिष्टोऽहं ब्रह्माहं यज्ञ इत्यादि
प्रतिपद्यते' इति । अथ अनन्तरं पुत्रे निवेश्यात्मनो भारम्
अस्य पुत्रस्य इतरः अयं यः पित्रात्मा कृतकृत्य:, कर्तव्यात्
ऋणत्रयात् विमुक्तः कृतकर्तव्य इत्यर्थः, वयोगतः गतवयाः
जीर्णः सन् प्रैति म्रियते । सः इतः अस्मात् प्रयन्नेव शरीरं
परित्यजन्नेव, तृणजलूकादिवत्, देहान्तरमुपाददानः कर्मचि -
तम्, पुनर्जायते । तदस्य मृत्वा प्रतिपत्तव्यं यत्, तत् तृतीयं
जन्म । ननु संसरत: पितुः सकाशाद्रेतोरूपेण प्रथमं जन्म ;
तस्यैव कुमाररूपेण मातुर्द्वितीयं जन्मोक्तम्; तस्यैव तृतीये
जन्मनि वक्तव्ये, प्रयतस्तस्य पितुर्यज्जन्म, तत्तृतीयमिति कथ-
मुच्यते ? नैष दोषः, पितापुत्रयोरेकात्मत्वस्य विवक्षितत्वात् ।
सोऽपि पुत्रः स्वपुत्रे भारं निधाय इतः प्रयन्नेव पुनर्जायते
यथा पिता । तदन्यत्रोक्तमितरत्राप्युक्तमेव भवतीति मन्यते
श्रुतिः । पितापुत्रयोरेकात्मत्वात् ॥