2026-05-06 06:33:41 by ambuda-bot
This page has not been fully proofread.
चतुर्थः खण्डः ।
२८१
सा भावयित्री वर्धयित्री भर्तुरात्मनो गर्भभूतस्य भाव-
यितव्या वर्धयितव्या च भर्त्रा भवति । न ह्युपकारप्रत्युप-
कारमन्तरेण लोके कस्यचित्केनचित्संबन्ध उपपद्यते । तं गर्भ
स्त्री यथोक्तेन गर्भधारणविधानेन बिभर्ति धारयति अग्रे प्रा-
ग्जन्मनः । सः पिता अग्रे एव पूर्वमेव जातमात्रं कुमारं जन्मनः
अधि ऊर्ध्व जन्मनः जातं कुमारं जातकर्मादिना पिता भाव-
यति । सः पिता यत् यस्मात् कुमारं जन्मनः अधि ऊर्ध्व
अग्रे जातमात्रमेव जातकर्मादिना यद्भावयति, तत् आत्मान-
मेव भावयति ; पितुरात्मैव हि पुत्ररूपेण जायते । तथा
ह्युक्तम् 'पतिर्जायां प्रविशति' इत्यादि । तत्किमर्थमात्मानं
पुत्ररूपेण जनयित्वा भावयतीति ? उच्यते — एषां लोकानां
संतत्यै अविच्छेदायेत्यर्थः । विच्छिद्येरन्दीमे लोका: पुत्रो-
त्पादनादि यदि न कुर्युः । एवं पुत्त्रोत्पादनादिकर्मा-
विच्छेदेनैव संतताः प्रबन्धरूपेण वर्तन्ते हि यस्मात् इमे
लोकाः, तस्मात्तदविच्छेदाय तत्कर्तव्यम् ; न मोक्षायेत्यर्थः ।
तत् अस्य संसारिण: कुमाररूपेण मातुरुदराद्यन्निर्गमनम्, तत्
रेतरूपापेक्षया द्वितीयं जन्म द्वितीयावस्थाभिव्यक्तिः ॥
सोऽस्यायमात्मा पुण्येभ्यः कर्मभ्यः
प्रतिधीयते । अथास्यायमितर आत्मा