2026-05-06 06:33:41 by ambuda-bot
This page has not been fully proofread.
२८०
ऐतरेयोपनिषद्भाष्ये
तत्स्त्रिया आत्मभूयं गच्छति यथा
स्वमङ्गं तथा । तस्मादेनां न हिनस्ति सा-
स्यैतमात्मानमत्र गतं भावयति ॥ २ ॥
तत् रेतः यस्यां स्त्रियां सिक्तं सत्तस्याः स्त्रियाः आत्मभूयम्
आत्माव्यतिरेकतां यथा पितुः एवं गच्छति प्राप्नोति यथा स्वमङ्गं
स्तनादि, तथा तद्वदेव । तस्माद्धेतोः एनां मातरं स गर्भो न
हिनस्ति पिटकादिवत् । यस्मात्स्तनादि स्वाङ्गवदात्मभूयं गत-
म्, तस्मान्न हिनस्ति न बाधत इत्यर्थः । सा अन्तर्वनी
एतम् अस्य भर्तुरात्मानम् अत्र आत्मन उदरे गतं प्रविष्टं
बुद्धा भावयति वर्धयति परिपालयति गर्भविरुद्धाशनादि-
परिहारम् अनुकूलाशनाद्युपयोगं च कुर्वती ॥
सा भावयित्री भावयितव्या भवति
तं स्त्री गर्भ बिभर्ति सोऽग्र एव कुमारं
जन्मनोऽग्रेऽधि भावयति । स यत्कुमारं
जन्मनोऽग्रेऽधि भावयत्यात्मानमेव तद्भा-
वयत्येषां लोकानां संतत्या एवं संतता
हीमे लोकास्तदस्य द्वितीयं जन्म ॥ ३ ॥