2026-05-06 06:33:41 by ambuda-bot
This page has not been fully proofread.
`चतुर्थः खण्डः ।
२७९
तमात्मन्येवात्मानं बिभर्ति तद्यथा स्त्रि-
यां सिञ्चत्यथैनज्जनयति तदस्य प्रथमं
जन्म ॥ १ ॥
-
अयमेवाविद्याकामकर्माभिमानवान यज्ञादिकर्म कृत्वा अ-
स्माल्लोकाद्धूमादिक्रमेण चन्द्रमसं प्राप्य क्षीणकर्मा वृष्टया -
दिक्रमेण इमं लोकं प्राप्य अन्नभूतः पुरुषाग्नौ हुतः । तस्मि
न्पुरुषे ह वै अयं संसारी रसादिक्रमेण आदितः प्रथमतः
रेतोरूपेण गर्भो भवतीति एतदाह — यदेतत्पुरुषे रेतः, तेन
रूपेणेति । तच्च एतत् रेतः अन्नमयस्य पिण्डस्य सर्वेभ्य: अ-
ङ्गेभ्यः अवयवेभ्यो रसादिलक्षणेभ्यः तेज: साररूपं शरीरस्य
संभूतं परिनिष्पन्नं तत् पुरुषस्य आत्मभूतत्वादात्मा, तमा-
त्मानं रेतोरूपेण गर्भीभूतम् आत्मन्येव स्वशरीर एव आ-
त्मानं विभर्ति धारयति । तत् रेतः स्त्रियां सिञ्चति यदा,
यदा यस्मिन्काले भार्या ऋतुमती तस्यां योषाग्नौ स्त्रियां सि-
चति उपगच्छन्, अथ तदा एनत् एतद्रेत: आत्मनो गर्भ-
रूपं जनयति पिता । तत् अस्य पुरुषस्य स्थानान्निर्गमनं
रेतःसेककाले रेतोरूपेण अस्य संसारिणः प्रथमं जन्म प्रथ-
मावस्थाभिव्यक्ति: । तदेतदुक्तं पुरस्तात् 'असावात्मा अमु-
मात्मानम्' इत्यादिना ॥