Proofing

This page has not been fully proofread.

.:
२७८
 
ऐतरेयोपनिषद्भाष्ये
 
,
 
'
 
"यत्र
 
बोधयतीति । तादृगेव तद्भवतो वचनम् । नास्यमनुष्य इत्यु-
केsपि मनुष्यत्वमात्मनो न प्रतिपद्यते यः, स कथं मनु-
ध्योऽसीत्युक्तोऽपि मनुष्यत्वमात्मनः प्रतिपद्येत ? तस्माद्यथा-
शास्त्रोपदेश एवात्मावबोधविधिः, नान्यः । न ह्यग्नेर्दा
तृणादि अन्येन केनचिद्दग्धुं शक्यम् । अत एव शास्त्रमात्म-
स्वरूपं बोधयितुं प्रवृत्तं सत् अमनुष्यत्वप्रतिषेधेनेव 'नेति
नेति' इत्युक्त्वोपरराम । तथा ' अनन्तरमबाह्यम् अयमात्मा
ब्रह्म सर्वानुभूः' इत्यनुशासनम् ; 'तत्त्वमसि'
त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्' इत्येवमाद्यपि च ।
यावदयमेव यथोक्तमिममात्मानं न वेत्ति, तावदयं बाह्या-
नित्यदृष्टिलक्षणमुपाधिमात्मत्वेनोपेत्य अविद्यया उपाधिधर्मा-
नात्मनो मन्यमानो ब्रह्मादिस्तम्बपर्यन्तेषु स्थानेषु पुनः पुन-
रावर्तमानः अविद्याकामकर्मवशात्संसरति । स एवं संस-
रन् उपात्तदेहेन्द्रियसंघातं त्यजति । त्यक्त्वा अन्यमुपादत्ते ।
पुनः पुनरेवमेव नदीस्रोतोवज्जन्ममरणप्रबन्धाविच्छेदेन वर्त-
मान: काभिरवस्थाभिर्वर्तते इत्येतमर्थं दर्शयन्त्याह श्रुतिः
वैराग्यहेतो:-
 
--
 
पुरुषे ह वा अयमादितो गर्भो भवति ।
यदेतदेतस्तदेतत्सर्वेभ्योऽङ्गेभ्यस्तेजः संभू-