2026-05-06 06:33:39 by ambuda-bot
This page has not been fully proofread.
चतुर्थः खण्डः ।
२७७
एतन्निमित्तैव । तथा अस्ति, नास्ति, इत्याद्याश्च यावन्तो वा-
ङ्मनसयोर्भेदा यत्रैकं भवन्ति, तद्विषयाया नित्याया दृष्टेनिं-
विशेषायाः । अस्ति नास्ति, एकं नाना, गुणवदगुणम्, जा-
नाति न जानाति, क्रियावदक्रियम्, फलवदफलम्, सबीजं
निर्बीजम्, सुखं दु:खम्, मध्यममध्यम्, शून्यमशून्यम्, प-
रोऽहमन्यः, इति वा सर्ववाक्प्रत्ययागोचरे स्वरूपे यो विक-
ल्पयितुमिच्छति, स नूनं खमपि चर्मवद्वेष्टयितुमिच्छति,
सोपानमिव च पद्भ्यामारोढुम् ; जले खे च मीनानां व-
यसां च पदं दिदृक्षते; 'नेति नेति' ' यतो वाचो निवर्तन्ते '
इत्यादिश्रुतिभ्यः, ' को अद्धा वेद' इत्यादिमन्त्रवर्णात् ।
कथं तर्हि तस्य स म आत्मेति वेदनम् ; ब्रूहि केन
प्रकारेण तमहं स म आत्मेति विद्याम् । अत्राख्यायि-
कामाचक्षते— कश्चित्किल मनुष्यो मुग्धः कैश्चिदुक्तः क-
स्मिंश्चिदपराधे सति धिक्त्वां नासि मनुष्य इति । स
मुग्धतया आत्मनो मनुष्यत्वं प्रत्याययितुं कंचिदुपेत्याह-
ब्रवीतु भवान्कोऽहमस्मीति । स तस्य मुग्धतां ज्ञात्वा
आह-
क्रमेण वोधयिष्यामीति । स्थावराद्यात्मभावम-
पोह्य न त्वममनुष्य इत्युक्त्वोपरराम । स तं मुग्धः
प्रत्याह — भवान्मां बोधयितुं प्रवृत्तस्तूष्णीं बभूव, किं न