2026-05-06 06:33:39 by ambuda-bot
This page has not been fully proofread.
२७६
ऐतरेयोपनिषद्भाष्ये
नित्या, नित्या चात्मस्वरूपस्य । तथा द्वे मती विज्ञाती बा-
ह्याबह्ये । एवं ह्येव चेयं श्रुतिरुपपन्ना भवति - 'दृष्टेष्टा
श्रुतेः श्रोता' इत्याद्या । लोकेऽपि प्रसिद्धं चक्षुषस्तिमिराग-
मापाययोः नष्टा दृष्टिः जाता दृष्टिः इति चक्षुर्दृष्टेरनित्यत्वम् ।
तथा च श्रुतिमत्यादीनामात्मदृष्ट्यादीनां च नित्यत्वं प्रसिद्ध-
मेव लोके । वदति ह्युद्धृतचक्षुः स्वप्नेऽद्य मया भ्राता दृष्ट
इति । तथा अवगतबाधिर्यः स्वप्ने श्रुतो मन्त्रोऽद्येत्यादि । य-
दि चक्षुः संयोगजैवात्मनो नित्या दृष्टिस्तन्नाशे नश्येत् तदा
"
उद्धृतचक्षुः स्वप्ने नीलपीतादि न पश्येत् । ' न हि द्रष्टुर्दृष्टे : '
इत्याद्या च श्रुतिः अनुपपन्ना स्यात् । ' तच्चक्षुः पुरुषे येन स्वप्नं
पश्यति' इत्याद्या च श्रुतिः । नित्या आत्मनो दृष्टिर्बाह्यानि-
त्यदृष्टेर्ग्राहिका । वाह्यदृष्टेश्च उपजनापायाद्यनित्यधर्मवत्त्वात्
ग्राहिकाया आत्मदृष्ठेस्तद्वदवभासत्वमनित्यत्वादि भ्रान्तिनि-
मित्तं लोकस्येति युक्तम् । यथा भ्रमणादिधर्मवदलातादिवस्तु-
विषयदृष्टिरपि भ्रमतीव, तद्वत् । तथा च श्रुतिः
' ध्यायती-
व लेलायतीव' इति । तस्मादात्मदृष्टेर्नित्यत्वान्न यौगपद्यम-
यौगपद्यं वा अस्तिं । बाह्यानित्यदृष्ट्युपाधिवशात्तु लोकस्य
तार्किकाणां च आगमसंप्रदायवर्जितत्वात् अनित्या आत्मनो
दृष्टिरिति भ्रान्तिरुपपन्नैव । जीवेश्वरपरमात्मभेदकल्पना च